हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 128 – युद्धकाण्ड अष्टाविंशत्युत्तरशततमः सर्गः (१२८)
॥ भरतप्रियाख्यानम् ॥
अयोध्यां तु समालोक्य चिन्तयामास राघवः ।
चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ १ ॥
जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे ।
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ॥ २ ॥
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ।
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ॥ ३ ॥
भविष्यति गुहः प्रीतः स ममात्मसमः सखा ।
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ॥ ४ ॥
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ।
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ॥ ५ ॥
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ।
हरणं चापि वैदेह्या रावणेन बलीयसा ॥ ६ ॥
सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ।
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥ ७ ॥
लङ्घयित्वा महातोयमापगापतिमव्ययम् ।
उपायानं समुद्रस्य सागरस्य च दर्शनम् ॥ ८ ॥
यथा च कारितः सेतू रावणश्च यथा हतः ।
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ॥ ९ ॥
महादेवप्रसादाच्च पित्रा मम समागमम् ।
उपयान्तं च मां सौम्यं भरतस्य निवेदय ॥ १० ॥
सह राक्षसराजेन हरीणां प्रवरेण च ।
एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा ॥ ११ ॥
स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ।
जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः ॥ १२ ॥
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ॥ १३ ॥
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ।
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ॥ १४ ॥
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ।
सङ्गत्या भरतः श्रीमान्राज्यार्थी चेत्स्वयं भवेत् ॥ १५ ॥
प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ।
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ॥ १६ ॥
यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ।
इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः ॥ १७ ॥
मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ ।
अथोत्पपात वेगेन हनुमान्मारुतात्मजः ॥ १८ ॥
गरुत्मानिव वेगेन जिघृक्षन्भुजगोत्तमम् ।
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ॥ १९ ॥
गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ।
शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ॥ २० ॥
स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ।
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ॥ २१ ॥
सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ।
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ॥ २२ ॥
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ।
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ॥ २३ ॥
उत्पपात महावेगो वेगवानविचारयन् ।
सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ॥ २४ ॥
गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा ।
प्रजाश्च बहुसाहस्राः स्फीताञ्जनपदानपि ॥ २५ ॥
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।
आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपगान् ॥ २६ ॥
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् ।
सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥ २७ ॥
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।
ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ २८ ॥
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ २९ ॥
समुन्नतजटाभारं वल्कलाजिनवाससम् ।
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥ ३० ॥
पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ ३१ ॥
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥ ३२ ॥
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥ ३३ ॥
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।
उवाच प्राञ्जलिर्वाक्यं हनुमान्मरुतात्मजः ॥ ३४ ॥
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।
अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ ३५ ॥
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।
अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ३६ ॥
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३७ ॥
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।
सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३८ ॥
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।
पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ३९ ॥
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।
हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४० ॥
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।
सिषेच भरतः श्रीमान्विपुलैरस्रबिन्दुभिः ॥ ४१ ॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४२ ॥
गवां शतसहस्रं च ग्रामाणां च शतं परम् ।
सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥ ४३ ॥
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।
सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥ ४४ ॥
निशम्य रामागमनं नृपात्मजः
कपिप्रवीरस्य तदद्भुतोपमम् ।
प्रहर्षितो रामदिदृक्षयाभवत्
पुनश्च हर्षादिदमब्रवीद्वचः ॥ ४५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.